हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Ayodhya Kanda Sarga 74 – अयोध्याकाण्ड चतुःसप्ततितमः सर्गः (७४)
॥ कैकेय्याक्रोशः ॥
तां तथा गर्हयित्वा तु मातरं भरतस्तदा ।
रोषेण महताऽविष्टः पुनरेवाब्रवीद्वचः ॥ १ ॥
राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि ।
परित्यक्ता च धर्मेण मा मृतं रुदती भव ॥ २ ॥
किं नु तेऽदूषयद्राजा रामः वा भृशधार्मिकः ।
ययोः मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ ॥ ३ ॥
भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् ।
कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् ॥ ४ ॥
यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा ।
सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् ॥ ५ ॥
त्वत्कृते मे पिता वृत्तः रामश्चारण्यमाश्रितः ।
अयशो जीवलोके च त्वयाऽहं प्रतिपादितः ॥ ६ ॥
मातृरूपे ममामित्रे नृशंसे राज्यकामुके ।
न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि ॥ ७ ॥
कौसल्या च सुमित्रा च याश्चान्या मम मातरः ।
दुःखेन महताऽविष्टास्त्वां प्राप्य कुलदूषिणीम् ॥ ८ ॥
न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः ।
राक्षसी तत्र जाताऽसि कुलप्रध्वंसिनी पितुः ॥ ९ ॥
यत्त्वया धार्मिको रामर्नित्यं सत्यपरायणः ।
वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः ॥ १० ॥
यत्प्रधानाऽसि तत्पापं मयि पित्रा विना कृते ।
भ्रातृभ्यां च परित्यक्ते सर्व लोकस्य चाप्रिये ॥ ११ ॥
कौसल्यां धर्मसम्युक्तां वियुक्तां पापनिश्चये ।
कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनी ॥ १२ ॥
किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् ।
ज्येष्ठं पितृसमं रामं कौसल्यायात्म सम्भवम् ॥ १३ ॥
अङ्गप्रत्यङ्गजः पुत्रः हृदयाच्चापि जायते ।
तस्मात्प्रियतमो मातुः प्रियत्वान्न तु बान्धवः ॥ १४ ॥
अन्यदा किल धर्मज्ञा सुरभिः सुरसम्मता ।
वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ ॥ १५ ॥
तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले ।
रुरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ॥ १६ ॥
अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः ।
बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ॥ १७ ॥
इन्द्रोऽप्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम् ।
सुरभिं मन्यते दृष्ट्वा भूयसीं तां सुरेश्वरः ॥ १८ ॥
निरीक्षमाणः शक्रस्तां ददर्श सुरभिं स्थिताम् ।
आकाशे विष्ठितां दीनां रुदतीं भृशदुःखिताम् ॥ १९ ॥
तां दृष्ट्वा शोकसन्तप्तां वज्र पाणिर्यशस्विनीम् ।
इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः ॥ २० ॥
भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत् ।
कुतर्निमित्तः शोकस्ते ब्रूहि सर्व हितैषिणि ॥ २१ ॥
एवमुक्ता तु सुरभिः सुरराजेन धीमता ।
पत्युवाच ततो धीरा वाक्यं वाक्यविशारदा ॥ २२ ॥
शान्तं पापं न वः किञ्चित् कुतश्चिदमराधिप ।
अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ ॥ २३ ॥
एतौ दृष्ट्वा कृशौ दीनौ सूर्यरश्मिप्रतापिनौ ।
अर्द्यमानौ बलीवर्दौ कर्षकेण सुराधिप ॥ २४ ॥
मम कायात् प्रसूतौ हि दुःखितौ भारपीडितौ ।
यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः ॥ २५ ॥
यस्याः पुत्रसहस्रैस्तु कृत्स्नं व्याप्तमिदं जगत् ।
तां दृष्ट्वा रुदतीं शक्रो न सुतान्मन्यते परम् ॥ २६ ॥
सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया ।
श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥ २७ ॥
यस्याः पुत्रसहस्राणि साऽपि शोचति कामधुक् ।
किं पुनर्या विना रामं कौसल्या वर्तयिष्यति ॥ २८ ॥
एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता ।
तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे ॥ २९ ॥
अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् ।
वर्धनं यशसश्चापि करिष्यामि न संशयः ॥ ३० ॥
आनाययित्वा तनयं कौसल्याया महाबलम् ।
स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् ॥ ३१ ॥
न ह्यहं पापसङ्कल्पे पापे पापं त्वया कृतम् ।
शक्तो धारयितुं पौरैरश्रुकण्ठैर्निरीक्षितः ॥ ३२ ॥
सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान्विश ।
रज्जुं बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥ ३३ ॥
अहमप्यवनिं प्राप्ते रामे सत्यपराक्रमे ।
कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥ ३४ ॥
इति नागैवारण्ये तोमराङ्कुशचोदितः ।
पपात भुवि सङ्क्रुद्धो निश्श्वसन्निव पन्नगः ॥ ३५ ॥
संरक्तनेत्रः शिथिलाम्बरस्तथा
विधूत सर्वाभरणः परन्तपः ।
बभूव भूमौ पतितो नृपात्मजः
शचीपतेः केतुरिवोत्सवक्षये ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥
www.sanatanadharm.com